सत्यमिदं' संस्कृति: संस्कृतमाश्रिता' इति| सानन्दं लक्ष्यपूर्णजीवनं यापयितुमिह लोकाभ्युदयाय पारमार्थिक कल्याणाय च यत् किञ्चिदपि अपेक्षितम् तत् सर्वं संस्कृतवाङ्ग्मये विराजते | न केवलं भाषा व्याकरण दृष्ट्या अपितु विषय दृष्ट्या अपि संस्कृतं परिपूर्णरत्नमस्ति | तिलेषु तैलवत् देववाण्याम् अस्याम् मानवं देवंम् कर्तुं शक्ति : सुप्रतिष्ठिता । दृढमूलरूपसंस्कृतप्रचारप्रसारजलेन सिञ्चित :संस्कृति पादप :सदा पुष्पितपल्लवित: विलसति । संस्कृतसाहित्यं तदैव जीवति यदा वयं स्वजीवनेन तत् योजयेम वर्तमानसमस्यानाम् समाधानं च तस्मात् कुर्याम । अपि च तत्साहित्यरसेन समाजमपि अवगतं कारयेम । अस्मै कार्याय प्रयत्न :द्विविध :भवितव्य :। एकत :आत्मानं तस्य रसेन आप्लावयेत् | अपरत :आधुनिकभाषासु तत् अनूदित्य जनानपि अप्लावयेत् । यदि स :स्वयं रसं न जानाति तर्हि अन्यं कथम् रसेन परिचितम् करोति । यदि अनुवाद :अपि न सम्भव :स्यात् तर्हि यथाशक्ति ग्रन्थानाम् मूलसारदानेन जनेषु ज्ञानम् प्रसारयेत् । एवं जनेषु संस्कृताध्ययनम् प्रति रुचि :जायते । अनेन स्वजीवनमपि सफलं भवेत् समाजसेवा अपि सम्पन्ना स्यात् । एवं संस्कृतपरिरक्षणम् मानवरक्षणाय समस्तविश्वरक्षणाय कल्पते ।
Sunday, March 24, 2013
Glory of Sanskrit

Subscribe to:
Post Comments (Atom)
Dear Amma, such a divine start to usher in a new dimension to your Sanskrit writings and contributions - into the world of internet!
ReplyDeletelove
V
Thank you very much.
ReplyDelete